Google Search

Tuesday, February 21, 2012

अर्धनारीश्वरस्तोत्रम् - (श्री शंकराचार्य कृतम)


चाम्पेयगौरार्धशरीरकायै कर्पूरगौरार्धशरीरकाय ।
धम्मिल्लकायै च जटाधराय नमः शिवायै च नमः शिवायै ।।

कस्तूरिकाकुङ्कुमचर्चितायै चितारजः पुञ्जविचर्चिताय ।
कृतस्मरायै विकृतस्मराय नमः शिवायै च नमः शिवायै ।।

झणत्वक्कणत्कङ्कणनुपरायै पादाब्जराजत्फणिनूपराय ।
हेमाङ्गदायै भुजंगाङ्गदाय नमः शिवायै च नमः शिवायै ।।

विशालनीलोत्पललोचनायै विकासपिंड्केरुहलोचनाय ।
समेक्षणायै विषमेक्षणाय नमः शिवायै च नमः शिवायै ।।

मन्दारमालाकलितालकायै कपालमालाङिकतकन्धराय ।
दिव्याम्बरायै च दिगम्बराय नमः शिवायै च नमः शिवायै ।।

अन्भोधरश्यामलकुन्तलायै तटित्प्रभाताम्रजटाधराय ।
निरीश्वरायै निखिलेश्वरायै नमः शिवायै च नमः शिवायै ।।

प्रपञ्चसृष्ट्युन्मुखलास्यकायै समस्तसंहारकताण्डवायै ।
जगज्जनन्यै जगदेकिपित्रै नमः शिवायै च नमः शिवायै ।।

प्रदीप्तरत्नोज्ज्वलकुण्डलायै स्फुरमहापन्नगभूषणाय ।
शिवान्वितायै च शिवान्विताय नमः शिवायै च नमः शिवायै ।।

एतत्पठेतदष्टकमिष्दं यो भक्त्या स मान्यो भुवि दीर्घजीवी ।
प्राप्नोति सौभ्याग्यमनन्तकालं भूयात्सदा तस्य समस्तसिद्धिः ।।

No comments:

" Motivational Video "

All Posts on this blog are the property of their respective authors. All information has been reproduced here for educational and informational purposes.