Google Search

Tuesday, February 21, 2012

श्रीशारदादेवीस्तोत्रम्


प्रकृतिं परमामभयां वरदां नररुपधरां जनतापहराम् ।
शरणागतसेवकतोषकरीं प्रणमामि परां जननीं जगताम् ।।

गुणहीनसुतानपराधयुतान् कृपयाद्ध समुद्वर मोहगतान् ।
तरणीं भवसागरपारकरीं प्रणमामि परां जननीं जगताम् ।।

विषयं कुसुमं परिह्त्य सदा चरणाम्बुरुहामृतशान्तिसुधाम् ।
पिब भृङ्गमनो भवरोगहरां प्रणमामि परां जननीं जगताम् ।।

कृपां कुरु महादेवि सुतेषु प्रणतेषु च ।
चरणाश्रयदानेन कृपामयि नमोस्तु ते ।।

लज्जापटावृते नित्यं शारदे ज्ञानदायके ।
पापेभ्यो नः सदा रक्ष कृपामयि नमोस्तु ते ।।

रामकृष्णगतप्राणां तन्नामश्रवणप्रियाम् ।
तद्भावरञ्जिताकारां प्रणमामि मुहुर्मुहः ।।

पवित्रं चरितं यस्याः पवित्रं जीवनं तथा ।
पवित्रतास्वरुपिण्यै तस्यै कुर्मो नमो नमः ।।

देवीं प्रसन्ना प्रणतार्तिहन्त्रीं योगीन्द्रपूज्यां युगधर्मपात्रीम् ।
तां शारदां भक्तिविज्ञानदात्रीं दयास्वरुपां प्रणमामि नित्यम् ।।

स्नेहेन बध्नासि मनोस्मदीयं दोषानशेषान् सगुणी करोषि ।
अहेतुना नो दयसे सदाषोन् स्वाङ्के गृहीत्वा यदिदं विचित्रम् ।।

प्रसीद मातर्विनयेन याचे नित्यं भव स्नेहवती सुतेषु ।
प्रेमैकबिन्दुं चिरदग्धचित्ते विषिञ्ज चित्तं कुरु नः सुशान्तम् ।।

जननीं शारदां देवीं रामकृष्णं जगद्गुरुम् ।
पादपद्य्ने तयोः श्रित्वा प्रणमामि मुहुर्मुहुः ।।

No comments:

" Motivational Video "

All Posts on this blog are the property of their respective authors. All information has been reproduced here for educational and informational purposes.