Google Search

Wednesday, February 22, 2012

गुरूस्तोत्रम्


गुरूर्ब्रह्मा गुरुर्बिष्णुः गुरुर्देवो महेश्वरः ।
गुरुरेव परं ब्रह्म तस्मै श्रीगुरुवे नमः ।।

अज्ञानतिमिरान्धस्य ज्ञानाञ्जनशलाकया ।
चक्षुरुन्मीलितं येन तस्मै श्रीगुरुवे नमः ।।

अखण्डमण्डलाकारं व्याप्त येन चराचरम् ।
तत्पदं दर्शितं येन तस्मै श्रीगुरुवे नमः ।।

अनेकजन्म-संप्राप्तकर्मबन्धविदाहिने ।
आत्मज्ञानप्रदानेन तस्मै श्रीगुरुवे नमः ।।

मन्नाथः श्रीजगन्नाथो मद्गुरुः ।
ममात्मा सर्वभूतात्मा तस्मै श्रीगुरुवे नमः ।।

ब्रह्मानन्द परमसुखं केवलं ज्ञानमूर्तिम् ।
द्वन्द्वातीतं गगनसदृशं तत्त्वमस्यादिलक्ष्यम् ।।

एकं नित्यं विमलमचलं सर्वधीसाक्षिभूतं ।
भावातीतं त्रिगुणरहितं सद्गुरुं तं नमामि ।।

No comments:

" Motivational Video "

All Posts on this blog are the property of their respective authors. All information has been reproduced here for educational and informational purposes.